लोगों की राय

आचार्य श्रीराम शर्मा >> गायत्री प्रार्थना

गायत्री प्रार्थना

श्रीराम शर्मा आचार्य

प्रकाशक : युग निर्माण योजना गायत्री तपोभूमि प्रकाशित वर्ष : 2020
पृष्ठ :60
मुखपृष्ठ : ईपुस्तक
पुस्तक क्रमांक : 15489
आईएसबीएन :00000

Like this Hindi book 0

गायत्री प्रार्थना

गायत्री स्तवन

 

ॐ  यन्मण्डलं दीप्तिकरं विशालम्,
रत्नप्रभं तीव्रमनादिरूपम्।
दारिद्रय-दु:खक्षयकारणं च,
पुनातु मां तत्सवितुर्वरेण्यम्।। 1


यन्मण्डलं देवगणै: सुपूजितम्,
विप्रै: स्तुतं मानवमुक्तिकोविदम्।
तं देवदेवं प्रणमामि भर्गं,
पुनातु मां तत्सवितुर्वरेण्यम्।। 2


यन्मण्डलं ज्ञानघनं त्वगम्यं,
त्रैलोक्य पूज्यं त्रिगुणात्मरूपम्।
समस्त - तेजोमय - दिव्य रूपं,
पुनातु मां तत्सवितुर्वरेण्यम्।। 3


यन्मण्डलं गूढमतिप्रबोधं,
धर्मस्य वृद्धिं कुरुते जनानाम्।
यत् सर्वपापक्षयकारणं च,
पुनातु मां तत्सवितुर्वरेण्यम्।। 4


यन्मण्डलं व्याधिविनाशदक्षं,
यदृग-यजु:-सामसु सम्प्रगीतम्।
प्रकाशितं येन च भुर्भुव: स्व:,
पुनातु मां तत्सचितुर्वरेण्यम्।। 5


यन्मण्डलं वेदविदो वदन्ति,
गायन्ति यच्चारण-सिद्धसंघा:।
यद्योगिनो योगजुषां च संघा:,
पुनातु मां तत्सवितुर्वरेण्यम्।। 6


यन्मण्डलं सर्वजनेपु पूजितं,
ज्योतिश्च कुर्यादिह मर्त्यलोके।
यत्काल - कालादिमनादिरूपं,
पुनातु मां तत्सवितुर्वरेण्यम्। 7


यन्मण्डलं विष्णुचतुर्मुखास्यं,
यदक्षरं पापहरं जनानाम्।
यत्कालकल्पक्षयकारण च,
पुनातु मां तत्सवितुर्वरेण्यम्।। 8


यन्मण्डलं विश्वसृजां प्रसिद्धं,
उत्पत्ति - रक्षा - प्रलयप्रगल्भम।
यस्मिन् जगत्‌सहरतेऽखिलं च,
पुनातु मां तत्सवितुर्वरेण्यम्।। 9


यन्मण्डल सर्वगतस्य विष्णो:,
आत्मा परंधाम - विशुद्धतत्त्वम्।
सूक्ष्मान्तरैर्योगपथानुगम्यं,
पुनातु मां तत्सवितुर्वरेण्यम्।। 10


यन्मण्डलं ब्रह्मविदो वदन्ति,
गायन्ति यच्चारण-सिद्धसंधा:।
यन्मण्डलं वेदविद: स्मरन्ति,
पुनातु मां तत्सवितुर्वरेण्यम्।। 11


यन्मण्डलं वेद - विदोपगीतं,
यद्योगिनां योगपथानुगम्यम्।
तत्सर्ववेदं प्रणमामि दिव्यं,
पुनातु मां तत्सवितुर्वरेण्यम्।। 1२

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

अन्य पुस्तकें

लोगों की राय

No reviews for this book